मूलम्
अथ प्रमाणवादोऽयं संक्षेपेण निरूप्यते । तदधीनास्सर्वसिद्धीराहुस्सर्वेऽपि वादिनः ॥
मूलम्
मानं मेयं मितिर्मातेत्येतदर्थचतुष्टयम् । दुर्निरूपं ततश्शून्यमित्याहुर्मध्यमागमाः ॥
मूलम्
बुद्ध्या विविच्यमानायां स्वभावो नावधार्यते ।अतो निरभिलप्यास्ते निस्स्वभावाश्च दर्शिताः ॥
टीका
स. सि.[4-18]
मूलम्
पदार्थानां स्वतो रूपं न किञ्चिद्व्यवतिष्ठते । यथायथाऽर्थाश्चिन्त्यन्ते विशीर्यन्ते तथातथा ॥
मूलम्
इदं वस्तुबलायातं यद्वदन्ति विपश्चितः । यथायथाऽर्थाश्चिन्त्यन्ते भविष्यन्ति तथातथा ॥
मूलम्
कल्पनापोढमभ्रान्तं प्रमाणं निर्विकल्पकम् । विकल्पोऽवस्तुनिर्भासादसंवादादुपप्लवः ॥
मूलम्
नान्योऽनुभाव्यो बुद्ध्यास्ति तस्या नानुभवोऽपरः । ग्राह्यग्राहकवैधुर्यात्स्वयं सैव प्रकाशते ॥
मूलम्
अविभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः । ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥