407 भावान्तराभाववादः

मूलम्

भावान्तराभाववादः कुमारिलपरिष्कृतः ।इति प्रत्यक्षमेवैतत् श्रूयतां श्लोकवार्तिकम् ॥

टीका

श्लोक.[475]

मूलम्

प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव उच्यते । साऽऽत्मनोऽपरिणामो वा विज्ञानं वाऽन्यवस्तुनि ॥

मूलम्

स्वरूपपररूपाभ्यां नित्यं सदसदात्मके ।वस्तुनि ज्ञायते कैश्चिद्रूपं किंचित्कदाचन ॥

मूलम्

भावाभावात्मकं वस्तु तदेकमिति यद्यपि ।रूपादिवत्स्वतोऽस्त्येव भेदः नात्यन्तमेकता ॥

मूलम्

तस्माद्यदन्यथा सन्तमन्यथा प्रतिपद्यते ।तन्निरालम्बनं ज्ञानं अभावालम्बनं च तत् ॥

मूलम्

भावान्तरमभावोऽन्योन कश्चिदनिरूपणात् ।भ्रान्तिश्चाभावधीश्चापिचेत्थं सालम्बना मता ॥

मूलम्

इत्यभावपरिच्छेदे निरालम्बननिह्नवे ।भावान्तराभाववादः कुमारुलमुखोद्गतः ॥

मूलम्

इत्थं पर्मेयभागोऽयं प्रथमस्समगृह्यत ।लक्ष्मीपुरंश्रीनिवासविपश्चिच्चक्रवर्तिना ॥