406 प्राभाकरमताक्षेपः

मूलम्

यैस्तु मीमांसकैस्सद्भिरभावो नाभ्युपेयते ।प्रमादेनामुना तेषां अनिष्टमिदमुद्भवेत् ॥

मूलम्

न चाप्रतीतिमात्रेण तदभावनिबन्धनाः । व्यवहाराः प्रकल्पन्ते मृदन्तरिततोयवत् ॥

मूलम्

खपुष्पस्य पिशाचस्य मृदन्तरितवारिणः ।न खल्वनुपलभ्यत्वे विशेषः प्रतिभाति नः ॥

मूलम्

सर्वदाऽनुपलम्भो हि कुर्वन्नास्तित्वनिश्चयम् ।विशेष्यते मृदन्तस्स्थसलिलानुपलब्धितः ॥

मूलम्

आगमाद्युक्तितश्चापि सत्त्वसंभावनां गतः ।सर्वदाऽनुपलब्धोऽपि न पिशाचः खपुष्पवत् ॥

मूलम्

अनिष्यमाणे चाभावे भावानां प्रतियोगिनि ।नित्यतैषां प्रसज्येत न ह्येते क्षणिकास्तव ॥

मूलम्

मुद्गरादेश्च किंकार्यं, कपालपटलीति चेत् ।घटस्तर्ह्यविनष्टत्वात् स्वकार्यं न करोति किम् ॥

मूलम्

तदानीमेव दृष्टस्य स्थिरस्यामुष्य किंकृतम् ।सर्वेन्द्रियादिसामग्रीसन्निधानेऽप्यदर्शनम् ॥

मूलम्

स्वप्रकाशा च नास्तीतिसंवित्तिर्भवतां मते ।न निरालम्बना चेयमस्तीति प्रतिपत्तिवत् ॥

मूलम्

विकल्पविषयाश्शब्दा यथा शौद्धोदनेर्गृहे ।गीयन्ते भवता नैवमिति नञ्वाच्यमुख्यताम् ॥

मूलम्

प्रसिद्धिश्च परित्यक्ता न चाभावः पराकृतः ।उपेक्षितश्च भाष्यार्थः इत्यहो नयनैपुणम् ॥

मूलम्

अलं च बहुनोक्तेन विमर्दोऽत्र न शोभते । महात्मनां प्रमादोऽपि मर्षणीयो हि मादृशैः ॥

मूलम्

इति वार्तिककारीययुक्तिभिः न्यायमञ्जरी ।तत्प्रभाकरसिद्धान्तपरिहासेन शोभते ॥