मूलम्
अत्र नैयायिकाः प्राहुर्घटोऽस्तीहेतिबुद्धिवत् ।इह नास्तीतिबुद्देरप्यस्ति बोध्यं न वोभयम् ॥
मूलम्
सुखदुःखसपुत्पत्तिरभावे शत्रुमित्रयोः ।कण्टकाभावमालम्ब्य पदं पथि निधीयते ॥
मूलम्
प्रागुत्पत्तेर्घटाभावं बुद्ध्वा तत्कारणादरः ।व्याध्यभावपरिच्छेदाद्भैषज्यविनिवर्तनम् ॥
मूलम्
इहाभावप्रतिष्ठानव्यवहारपरंपराम् ।पश्यन्नभावं को नाम निह्नुवीत सचेतनः ॥
मूलम्
तदुत्पादस्भावे हि न किचिन्मुद्गरादिना । अतदुत्पादकत्वेऽपि न किचिन्मुद्गरादिना ॥
मूलम्
मुद्गरोपनिपाताच्च यदुत्पन्नं क्षणान्तरम् । घटक्षणस्य किं वृत्तं येन नाभाति पूर्ववत् ॥
मूलम्
नन्वस्याभवनं वृत्तं, स एवार्थोऽयमुच्यते ।घञा किमपराद्धं वा किं वाप्युपकृतं ल्युटा ॥
मूलम्
तस्मादित्थमभावस्य प्रमेयत्वोपपादनात् ।न ह्यसद्व्यवहाराय कल्पन्तेऽनुपलब्धयः ॥
मूलम्
न स्वभावानुमाने च तदन्तर्भावसम्भवः ।मेयं पृथगभावाख्यममूषामुपपादितम् ॥
मूलम्
कारणानुपलब्ध्यादेर्बाढमस्त्वनुमानता । स्वाभावानुपलब्धिस्तु प्रतियक्षमिति साधितम् ॥
मूलम्
जरत्तार्किकसिद्धान्ते न पदार्थान्तरं त्वसौ ।अभाव इति विद्वांसः केचिदत्रोल्लिखन्त्यपि ॥
मूलम्
मानं तु तत्र काणादसूत्रे नोददिशच्च तम् । द्रव्यादिसमवायान्ताः पदार्था एव कीर्तिताः ॥