मूलम्
अत्र रक्तपटाः प्राहुः प्रमेये सति चिन्तनम् ।युक्तं नाम प्रमाणस्य तदेवत्वतिदुर्लङम् ॥
टीका
न्या. म.[49]
मूलम्
अभावो निस्स्वभावस्स्यात् तुच्छं चाळीकमुच्यते ।न कार्यं कारण् मेयः मानं वाच्यश्च नेष्यते ॥
मूलम्
जगतो मिश्ररूपत्वं स्यादभावो न चेदिह ।इत्यादि यद्वार्तिकोक्तं तत्राहुरिदमुत्तरम् ॥
मूलम्
भावो भावादिवान्यस्मादभावाशोऽप्यसौ मिथः ।असङ्कीर्णोऽभ्युपेतव्यः स कथं वा भविष्यति ॥
मूलम्
अन्योन्यमप्यभावानां यद्यसंकीर्णता स्वतः ।भावैः किमपराद्धं वा परतश्चेत्कुतो नु सा ॥
मूलम्
भावेभ्यो यद्युपेयेत भवेदन्योन्यसंश्रयम् । अभावान्तरजन्या चेत् अनवस्था दुरुत्तरा ॥
मूलम्
नन्वभावप्रतिक्षेपे नञः किं व्च्यमुच्यते । नैव शब्दानुसारेण वाच्यस्थितिरुपेयते ॥
मूलम्
बौद्धाः खलु नयं लोके सर्वत्र ख्यातकीर्तयः ।विकल्पमात्रशब्दार्थपरिकल्पनपण्डिताः ॥
मूलम्
ननु चानेन मार्गेण यद्यभावो निरस्यते । एकादशप्रकारैषाऽनुपलब्धिः क्व गच्छतु ॥
मूलम्
सत्यमेकादशविधाऽनुपलब्धिरिहेषयते । सा त्वसद्व्यवहारस्य हेतुः नाभावसंविदः ॥
मूलम्
स्भावहेतावन्तस्स्था एता अनुपलब्धयः । स चासद्व्यवहारः तद्योग्यताऽत्र विवक्षिता ॥
मूलम्
सैव ह्यनुपलब्धिस्स्यात् एकता हेतुसाध्ययोः ।नन्वभावानभ्युपगमेऽनुपलब्धिश्च कीदृशी ॥
मूलम्
इयमेषा प्रतीषेधपर्युदस्तान्यशेमुषी ।वस्त्वन्तरोपलब्धिश्च स्वसंवेद्येति वर्ण्यते ॥
मूलम्
नातोऽन्यनुपलब्धेश्चापेक्षयाऽप्यनवस्थितिः ।विशेषणीया दृश्यत्वेनैषेत्यपि च कथ्यते ॥
मूलम्
नातोऽसद्व्यवहारस्स्यात् अदृषाटादाविति स्थितम् ।घटादेः पूर्वदृष्टस्य दृश्यत्वपरिनिश्चयात् ॥
मूलम्
असत्त्वव्यवहारो हि सिद्ध्यत्यनुपलब्धितः ।एकान्तानुपलब्धेषु विहायः कुसुमादिषु ॥
मूलम्
असत्त्वधीर्न दृश्यत्वयोग्यताऽनवधारणात् ।न शक्योऽनुपलम्भेन कर्तुं नास्तित्वनिश्चयः ॥
मूलम्
तत्रापित्वपिशाचोऽयं चैत्र इत्येवमादिषु ।तादात्म्यप्रतिषेधे च दृश्यत्वं नोपयुज्यते ॥
मूलम्
पिशाचेतररूपो हि चैत्रः प्रत्यक्षगोचरः । ताद्रूप्यनिश्चये तस्य किंफलं तद्विशेषणम् ॥
मूलम्
इत्यसद्व्यवहारस्य सिद्धेरनुपलब्धितः ।न भाववदभावाख्यं प्रमेयमवकल्पते ॥
मूलम्
इति सौगतसिद्धान्तं प्रत्यवस्थातुमब्रुवन् ।विलक्षणं प्रमाणं च प्रमेयं च कुमारिलाः ॥