मूलम्
व्यतिरेकोऽतिरेकश्च कैश्चिद्भेदो द्विधेष्यते ।अन्त्योऽसाधारणो धर्मः धर्मो धर्म्यपि वा परः ॥
टीका
न्या. सि.[6 परि.]
मूलम्
जीवो न व्यतिरिक्तोऽपित्वतिरिक्तो महेशितुः ।इति सिद्धान्तभेदोऽसौ तत्रोदाहरणं मतम् ॥
मूलम्
भेदेतरेतराभावप्रभेदं केचिदास्थिताः ।भेदो विशेषः व्यक्तिस्स्यात् अन्त्यः सामान्यमुच्यते ॥
मूलम्
अपोह एव सामान्यं सौत्रान्तिकविनिश्चितम् ।स्वलक्षणा विशेषास्स्युः जातिव्यक्ती इमे मते ॥
मूलम्
स्वरूपमेव वस्तूनां परस्परविलक्षणम् ।नानात्वं तत्सुसंवेद्यं भेद इत्यभिधीयते ॥
टीका
भा. भ.[99]
मूलम्
पटरूपं घटे नास्ति घटरूपं पटे नहि।इति देशान्तराभावः अन्योन्याभाव उच्यते ॥
मूलम्
इति भास्करसिद्धान्तः प्रायस्सौत्रान्तिकानुगः ।जातिर्भेदश्च संस्थानं त्रयमेतद्विलक्षणम् ॥
मूलम्
इति तार्किकनिष्कर्षोऽनर्थान्तरमिदं त्रयम् ।इति ऱामानुजीयानां सिद्धान्तः प्रविविच्यते ॥
टीका
श्रीभा. भेददूषणम्[ ]
मूलम्
केचिद्धिक्कुर्वते भेदं मानमेयाद्यसंभवात् ।भेदो द्विधा स्यात् सादिश्चानादिश्चेत्यपि तन्मतः ॥
टीका
वेदान्तपरिभाषा.[ ]
मूलम्
अनित्यमुभयं ध्वंसप्रतियोगीति कीर्त्यते । परे प्रतिब्रुवर्न्त्येतान् स्वप्रवृत्तिविरोधतः ॥
मूलम्
अपोहवादिनस्सर्वोऽप्यभावे पर्यवस्यति । भावान्तराभाववादे विपरीता ततो गतिः ॥
मूलम्
कैवल्याभाववादे तु पर्यायेण हि तुच्छता ।अतिरिक्ताभाववादः कैश्चित्तस्मात्समाश्रितः ॥
मूलम्
कारणत्वमभावस्य भाट्टैः नाभ्युपगम्यते । भावो यथा तथाऽभावः कारणं कार्यवन्मतः ॥
टीका
न्या. कु.[1 स्त.]
मूलम्
प्रतिबन्धो विसामग्री तद्धेतुः प्रतिबन्धकः ।इत्यभ्युपगमान्न्यायविद्भिश्शक्तिर्निरस्यते ॥
मूलम्
प्रभावकरगुरुः प्रायः न्यायसिद्धान्तवर्त्मगः ।अभावत्तत्त्वमीमांसा विदुषामपि दुर्गमा ॥