402 सांख्यमतम्

मूलम्

स्थितो नव्यपरिष्कारः, कापिलानां मते पुनः ।परिणामविशेषाख्यादन्यः कैवल्यलक्षणात् ॥

मूलम्

भूतलादेर्घटाभावो नाम कश्चन नेष्यते ।परिणामस्वभावा हि भावास्सर्वे प्रतिक्षणम् ॥

मूलम्

द्रव्यात्मना तु सर्वस्य नित्यता बहुसम्मता ।अतो विरोधप्रवादो ह्यत्यन्तप्रागभावयोः ॥

मूलम्

प्राक्प्रध्वंसाभिधाभावौ नात्यन्ताभावतः परौ ।आधारेऽपि तयोस्सोऽपि वर्तते न विरुध्यते ॥

मूलम्

यद्वा निराश्रयौ स्यातं यदि भिन्नौ ततो मतौ ।इति वादीन्द्रसिद्धान्तं तार्किका नानुमन्वते ॥