401 नैयायिकमतम्

मूलम्

अपेक्षाभाव एवासौ यस्स्यात्सामयिको मतः ।उत्पन्नस्य विनाशो वा तदनुत्पाद एव वा ॥

टीका

न्या. म.[63]

मूलम्

अभावस्तत्त्वतो,ऽन्ये तु भेदास्त्वौपाधिका इति ।प्राहुर्जयन्तभट्टाद्याः, नव्यनैयायिकाः पुनः ॥

मूलम्

संसर्गाभावतादात्म्याभावभेदाद्द्विधा विदुः । प्रागभावादिभेदेन प्रथमस्त्रिविधो मतः ॥

मूलम्

अजातो घटसंबन्धः प्रागभावस्सदोच्यते । उत्पद्य स विनष्टश्चेत्प्रध्वंसाभावशब्दितः ॥

मूलम्

शशस्य त्वविषाणित्वं विद्यते सार्वकालिकम् ।सोऽत्यन्ताभाव इत्येवं आद्यस्यैव विधा त्रिधा ॥

मूलम्

अन्यसंबन्धिताऽन्यत्र त्रिष्वप्येषु निषिध्यते ।संसर्गाभावशब्देन त्रितयं व्यपदिश्यते ॥

मूलम्

अन्यस्मिन्नन्यतादात्म्यनिषेधस्सयादनन्तरः ।स चेतरेतराभावस्तादात्म्याभावशब्दितः ॥

मूलम्

यद्यभावोऽधिकरणं धीर्वा कालोऽथवा भवेत् ।एकस्यानन्तता रूपाद्यभावाग्रहणं तु वा ॥