मूलम्
नास्तीत्याद्यध्यक्षसिद्धो ह्य़भावो भूतलादिषु ।घटादेः, वस्तुभूतोऽसौ न हि निह्नवमर्हति ॥
मूलम्
अभावव्यवहारोऽपि निश्शङ्कगमनादिकः ।तन्मात्रानुभवेनैव ख्यातो निष्कण्टकाध्वसु ॥
मूलम्
यदा यत्र च दृश्यत्वे सत्यप्यनुपलम्भनम् ।तदभावव्यवहृतिस्तदानीं संप्रवर्तते ॥
मूलम्
ज्ञेयाभावस्य तु ज्ञानाभावरूपत्वकल्पने । अभावाख्यपदार्थोऽङ्गीकृत एव भवेन्ननु ॥
मूलम्
दर्शनादर्शनाभ्यां हि सदसत्त्वविनिर्णयः ।दर्शनादर्शने एव सदसत्त्वे कथं पुनः ॥
मूलम्
अभावो बुद्ध्यभावश्चेत् बुद्धिस्स्यात्प्रतियोगिनी ।व्यर्थत्स्वियान् प्रयासस्स्यात् जिता विज्ञानवादिनः ॥
मूलम्
अभाववादिनो यत्स्यादभावज्ञानकारणम् ।तदेव व्यवहारस्य हेतुस्स्यादिति यो वदेत् ॥
मूलम्
घटादिव्यवहाराणामपि तज््ज्ञानकारणात् ।संसिद्धेस्सोऽपह्नुवीत ज्ञानमात्रं च चारुवाक् ॥
मूलम्
जगतो मिश्ररूपत्वं स्यादभावो न चेदिह ।क्षीरे दधि भवेदेवं दध्नि क्षीरं घटे पटः ॥
मूलम्
शशे शृङ्गं पृथिव्यादौ चैतन्यं मूर्तिरात्मनि ।अप्सु गन्धो रसस्चाग्नौ वाय्वादावपि ते गुणाः ॥
मूलम्
प्रागभावादिभेदेन नाभावो भिद्यते यदि ।न च स्याद्व्यवहारोऽयं कारणादिविभागतः ॥
मूलम्
नचावस्तुन एवैते भेदाः, तेनास्य वस्तुता ।मेयो यद्वदभावो हि मानमप्येवमिष्यताम् ॥
मूलम्
स चतुर्विध इत्युक्तः प्रागभावादिभेदतः ।अपेक्षाभावसामर्थ्याभावाभ्यां ष़ड्विदुः परे ॥
मूलम्
क्षीरे दध्यदि यन्नास्ति प्रागभावस्स उच्यते ।गवि योऽश्वाद्यभावस्स्यात्सोऽन्योन्याभाव ईर्यते ॥
मूलम्
शिरसोऽवयवा निम्नाः वृद्धिकाठिन्यवर्जिताः ।शशशृङ्गादिरूपेण सोऽत्यन्ताभाव उच्यते ॥