399 माध्यमिकमतम्

मूलम्

अथचाभावतत्त्वस्य जिज्ञासाऽत्र प्रवर्तते । अभावतत्त्वव्यत्यासाद्विवादाना समुद्भवः ॥

मूलम्

अभावो निस्स्वभावस्यान्न कार्यं नापि कारणम् ।तस्मान्नोत्पद्यते नैवोच्छिद्यते नित्य एव सः ॥

मूलम्

नित्येन प्रागभावेन ध्वंसेनापि च तादृशा ।ग्रस्तं विश्वं निस्स्वभावं तच्छून्यमिति सौगताः ॥

मूलम्

तत्रातिरिक्तमपरे त्वभावं नानुजानते ।अनुजानन्तोऽपि परे तत्तत्त्वं त्वित्थमूचिरे ॥