मूलम्
समवायस्थले कश्चिदपृथक्सिद्धिलक्षणः । संबन्धः स्वीकृतः प्राज्ञैः तत्स्वरूपं निशम्यताम् ॥
टीका
श्रीभा.[2-3-45]
मूलम्
सिद्धिर्नाम स्थितिः ज्ञप्तिः उत्पत्तिश्चापि कथ्यते ।पृथक्स्थित्यादयो यस्य न सन्ति यदपेक्षया ॥
टीका
स. सि.[4-84]
मूलम्
तयोस्स्यादपृथक्सिद्धिः संबन्ध इति गम्यते ।कार्यादिकारणादीनां सा स्यादयुतसिद्धयोः ॥
मूलम्
अविष्वग्भावनाम्नाऽयं संबन्धः पुनरार्हतैः ।स्वीकृतस्सोऽपि देशानां भेदस्यैव निषेधकृत् ॥
मूलम्
कथंचित्तादात्म्यरूपमिति पातञ्जलादिभिः ।स्वीकृतं वस्तुतस्तत्र फलभेदा न विद्यते ॥
मूलम्
अथापृथक्सिद्धिवादतात्पर्यस्येह संग्रहः । क्रियते बुद्धिशुद्ध्यर्थं यन्मूलं सर्वदर्शनम् ॥
मूलम्
यच्च वस्तुपरिच्छेदशून्यं ब्रह्माभिधीयते । तत्स्यादिदमिदं नेति निर्देशानर्हतात्मकम् ॥
मूलम्
तच्चस्वरूपाभेदात्स्यादपृथक्सिद्धितोऽपि वा ।ज़डाजडविभागश्च प्रमाणपरिनिष्ठितः ॥
मूलम्
ततोपृथक्सिद्धसत्ताकत्वात्तत्स्यादिति स्थितम् ।तच्च द्वेधैव घटते न प्रकारान्तरस्थितिः ॥
मूलम्
तत्र चैतत्सत्त्वभिन्नसत्त्वशून्यत्वतोऽथवा । यदधीना यस्य सत्ता तत्तदित्येव भण्यते ॥
मूलम्
इति स्मृत्यैतदायत्तसत्ताकत्वाद्भवेदपि । तत्राद्यं तु विशेषाख्यसत्ताशून्यत्वतोऽथ च ॥
मूलम्
व्यतिरिक्तत्वरूपस्य विशेषणदळस्य वा । अभावात्तत्राद्यपक्षः बाह्याद्वैतादुपागताः ॥
मूलम्
अनन्तरस्तु वेदान्ताद्वैताभ्युपगतो मतः । विशिष्टाद्वैतसिद्धान्ते तत्सत्तायत्तसत्तया ॥
मूलम्
अपृथक्सिद्धिरुररीकृता तत्र द्वयी गतिः । ब्रह्मसत्त्वेनैव सत्त्वं प्रपञ्चस्योपपद्यते ॥
मूलम्
अतिरिक्ता नास्ति सत्ता गुणजातिनयादिति ।इयमेका रीतिरन्या त्ववधानेन बुद्ध्यताम् ॥
मूलम्
प्रपञ्चे चापि सत्ताऽस्ति प्रमाणपरिनिष्ठिता ।सा ब्रह्मसत्तायत्ता स्यादित्येकेषां विनिर्णयः ॥
मूलम्
द्विधाऽपि जगतो नास्ति मिथ्यात्वं तुच्छताऽपि वा ।एवं द्वैतादिसिद्धान्ते निर्णीता प्रायशो गतिः ॥