मूलम्
एवं कर्तृत्वकर्मत्वविरोधस्तन्निबन्धनः ।कारकज्ञापकानैक्याविवेकात्सकलं त्विदम् ॥
मूलम्
कर्तृकर्मविरोधस्य रहस्यमिदमीरितम् ।कर्ता स्वतन्त्रः कर्मादिरुपसर्जनमिष्यते ॥
टीका
श्लोक.[866]
मूलम्
स्वातन्त्र्यं पारतन्त्र्यं च युगपन्न च युज्यते ।इत्येकमपरं चापि विद्वद्वर्यैर्निरूपितम् ॥
टीका
स. सि.[1-26]
मूलम्
कर्ता सिद्धः कर्म साध्यं कालभेदस्तयोः मतः ।एककालत्वमुभयोः विरुद्धमिति निर्णयः ॥
मूलम्
एष कालविरोधः स्यात् पूर्वो भवति दैशिकः ।क्रियैव कारकं येषां सौगतानामभीप्सितम् ॥
मूलम्
तेषां कालोऽथवा देशः नास्त्येव हि विरोधकृत् ।तस्माद्विरोधाविरोधविवादो वासनानुगः ॥