396 प्रकाशविकल्पः

मूलम्

प्रकाश्यता विषयता ग्राह्यतेत्येवमादयः । सर्वैर्दार्शनिकैः प्रायः समानार्था इतीष्यते ॥

मूलम्

कौमारिलैः पुनस्तत्र विशेषः कल्प्यते यथा ।अग्र्यादयो घटादीनां प्रसिद्धा ये प्रकाशकाः ॥

टीका

श्लोक.[288]

मूलम्

न ते प्रकाश्यरूपा हि प्रकाशस्यानपेक्षणात् ।ग्राह्यत्वं तु यदा तेषां तदाऽक्षं ग्राहकं मतम् ॥

मूलम्

अक्षग्रहणकाले तु ग्राहिका धीर्भविष्यति ।इत्युक्तेर्ग्राह्यता भिन्ना प्रकाश्यत्वादिति स्थितम् ॥

मूलम्

ब्रह्माद्वैतविदस्तत्र विपरीतं विदुर्यथा ।संविदः स्वप्रकाशत्वाद्यद्यपि स्यात्प्रकाश्यता ॥

मूलम्

विषयत्वात्मिका तत्र नेष्यते त्वनुभाव्यता ।नोचेदननुभूतित्वमनुभूतेः प्रसज्यते ॥

मूलम्

इति प्राहुस्ततो ग्राह्यताया भान्ना प्रकाश्यता ।एवं स्वयंप्रकाशत्वं त्रातुं वेद्यत्वनिह्नवः ॥

मूलम्

प्रकाशनिह्नवो भाट्टैः जाड्यं तस्यैव रक्षितुम् ।स्वप्रकाशास्वप्रकाशघीविवादफलं त्विदम् ॥