मूलम्
ज्ञानात्मकक्रियाजन्यफलभागित्वलक्षणम् ।कर्मत्वं विषयत्वं तत् प्राकट्यं भाट्टसम्मतम् ॥
टीका
न्या. र.[319]
मूलम्
आत्मार्थयोः कर्तृकर्मज्ञातृज्ञेयस्वभावयोः ।मानसप्रत्यक्षवेद्यः व्याप्यव्याप्तृत्वलक्षणः ॥
मूलम्
संबन्धः स्वस्य करणं कल्पयेत् ज्ञानलक्षणम् ।ज्ञाततैवाथवाऽध्यक्षा कल्पयत्येव कारणम् ॥
मूलम्
अनागतमतीतं च विप्रकृषटं तथेतरम् । विषयीकुरुते बुद्धिः प्राकट्येऽपि समो विधिः ॥
मूलम्
अतीतानागतत्वाभ्यां अद्यापि स्तो हि वस्तुनी ।अतो ज्ञानस्य संबन्धानुपपत्तिर्न विद्यते ॥
मूलम्
असतोरपि सामान्याद्यात्मना वृत्तिसंभवात् ।प्राकट्याश्रयता भाट्टैरगत्यैवोपपादिता ॥
मूलम्
स्वयंप्रकाशवादेऽपि संबन्धो बोध्यबोधयोः ।मानसाध्यक्षवेद्यस्स्यात् अन्यथा स न सिद्ध्यति ॥
मूलम्
तत्र त्रितयभावेन सर्वसाधारणोऽपरः ।विषयत्वात्मकः कश्चित्पदार्थस्सेद्धुमर्हति ॥
मूलम्
विषयत्वं व्यवहृतिभाक्त्वं त्विति गुरोर्मतम् ।अतीतादौ दशत्वादिसंख्यावदुपपद्यते ॥
मूलम्
स्वरूपलक्षणः कश्चिदन्यैः विषयतात्मकः ।नैयायिकैरुपगतः ह्युपलम्भानुरोधतः ॥
मूलम्
पदार्थान्तरमित्याहुः विषयत्वं तु केचन । नव्यनैयायिकाः तत्तु सर्वदोषप्रशान्तये ॥