387 तुल्याकारः

मूलम्

केचित् ज्ञानार्थयोस्तुल्यावाकारवनुजानते ।समानाकारता तेषां संसर्गस्स्याद्यथोच्यते ॥

मूलम्

अर्थेन घटयत्येनां न हि मुक्त्वाऽर्थरूपताम् ।तस्मात्प्रमेयाधिगतेः प्रमाणं मेयरूपता ॥

मूलम्

तत्र दोषं विदुश्चेत्थं योगाचारमतानुगाः । एकदेशेन सारूप्ये सर्वस्यात्सर्ववेदकः ॥

मूलम्

सर्वात्मना तु सारूप्ये ज्ञानमज्ञानतां व्रजेत् ।नान्योऽनुभाव्यो बुद्ध्याऽस्ति स्वयं सैव प्रकाशते ॥