मूलम्
एकार्थसमवायादिस्समवायिनबन्धनः ।तादात्म्यनामकः भाट्टैः भिन्नाभिन्नत्वलक्षणः ॥
मूलम्
समवायस्य च स्थाने संबन्धः पर्यभाष्यत ।तादात्म्यलक्षणो भेदाभेदो ज्ञातश्चतुर्विधः ॥
मूलम्
जातिव्यक्त्योस्तु तादात्म्यं स्यात्सामान्यविशेषयोः । क्रियाक्रियावतोस्तावत् अवस्थातद्वतोर्मतम् ॥
मूलम्
अंशांश्भावस्तार्तीयः स मतो गुणतद्वतोः ।कार्यकारणतादात्म्यं अवयव्यादिसंश्रितम् ॥
मूलम्
गोत्वं समुद्रो वृक्षश्च मृच्चोद्हरणं क्रमात् । व्यक्तिस्तरङ्गश्शाखादिः कुम्भश्च प्रतियोगिनः ॥