379 संयोगः

मूलम्

अथ संयोगसंबन्धः सौगतेर्नाभ्युपेयते ।पर्त्यासत्तिः प्रतीघातावसानेति हि तन्मतम् ॥

टीका

न्या. भा.[2-1-34]

मूलम्

अर्थान्तरस्य हेतुत्वान्नासौ निह्नवमर्हति ।शब्दरूपस्पर्शहेतुः कश्चिदागन्तुको ह्यसौ ॥

मूलम्

अमृते गरळे तूले चोपले ब्राह्मणे गवि ।चण्डाले कपिकच्छ्वादौ स्पर्शभेदोनुभूयते ॥

मूलम्

संयोगेनान्यथासिद्धिमातिष्ठन्ते विपश्चितः ।संयोगापह्नवे सर्वो व्यवहारो विरुध्यते ॥

मूलम्

निरन्तरस्थितिः काचित्संयोग इति केचन ।स्थितिः तद्देशसंयोग एवेत्यन्यैः प्रतीर्यते ॥

मूलम्

संयोगदेशकालाद्यैः प्रसिद्धैश्च ह्युपाधिभिः ।परिषद्राशिविपिनयूथसङ्घातपङ्क्तयः ॥

मूलम्

वण्डलव्यूहसंकीर्णचतुरश्रादिमूर्तयः ।आबाधितव्यवहृतिविषया निरुपाधिकाः ॥

मूलम्

महत्त्वैकत्वयुक्तत्वप्रमुखा बहवो गुणाः । संयुक्तद्रव्यनिष्ठास्तत्संयोगोऽशक्यनिह्नवः ॥

मूलम्

सादृश्यवच्च संयोगः कैश्चिन्मीमांसकैः पुनः ।अनुयोगिप्रतीयोगिभेदाद्भिन्न इतीष्यते ॥

टीका

न्या. म.[359]

मूलम्

विभूनां चेदसंयोगः सान्तरत्वं प्रसज्यते । अत एवाजसंयोगः शब्दश्रवणयोः मतः ॥

मूलम्

सर्वाधारत्वसिद्ध्यर्थमीश्वेरेऽपीष्यते बुधैः ।गुणवादे च संयोगविस्तरचावधार्यताम् ॥