मूलम्
अप्राप्तिपूर्विका प्राप्तिस्संयोग इति कीर्त्यते ।समवायस्तु निष्पत्तिप्राप्त्योः स्यादैककालिकः ॥
मूलम्
प्रतीतिभेदाद्भेदोऽस्ति देशभेदस्तु नेष्यते । तेनात्र कल्प्यते वृत्तिः समवायस्स उच्यते ॥
मूलम्
ये चेह वृत्ती स्रक्सूत्रभूतकण्ठगुणादिषु । जात्यादीनामनंशत्वात् ताभ्यां वृत्तिर्विलक्षणा ॥
टीका
श्लोक.[622]
मूलम्
नैयायिकास्तं प्रत्यक्षमाहुर्यौगास्त्वतीन्द्रियम् । निर्विकल्पैकव्षयं तं विदुर्भूषणानुगाः ॥
मूलम्
स निर्विकल्पानपेक्षसविकल्पकगोचरः । इति सिद्धान्तयन्त्यत्र त्वाचार्या इति च श्रुतम् ॥
टीका
शतदू.[10 भ.]
मूलम्
कारणे समवायो हि कार्याणां जन्म कथ्यते ।सत्तायास्समवायो वाऽथवाऽऽद्यक्षणयोगिता ॥
टीका
त. कौ.[9 का.]
मूलम्
समवायस्य जन्मत्वे विशेषणविशेष्यताम् ।जनयन् कारकस्तोमः नित्येऽपि सफलो मतः ॥
मूलम्
स च व्योमवदेवैकः नित्यस्सर्वगतोऽपि च ।तस्यानेकत्वमिच्छन्ति चापरे नव्यतार्किकः ॥
मूलम्
इति तार्किकसिद्धान्तः तत्र कौमारिलाशयः ।समवायो हि संबन्धान्तराभावेऽपि योजयेत् ॥
मूलम्
स्वभावादेव तावेव यथा संबन्धिनौ तथा ।विशिष्टव्यवहारं तमातन्वाते स्वभावतः ॥
मूलम्
द्रव्याद्रव्ये च तादात्म्यात्, समवायेन किं फलम् । त्रैकाल्यं यदि नित्यत्वं कालायोगिनि तत्कथम् ॥
मूलम्
यदि कारणशून्यत्वं यद्वा प्रध्वंसशून्यता । नित्यत्वं तत्प्रसज्येत प्रध्वंसप्रागभावयोः ॥
मूलम्
उभयान्तविहीनत्वं नित्यत्वं चेन्निरुच्यते ।नित्यत्योरिव सर्वेषां नित्यतात्र प्रसज्यते ॥
मूलम्
विशेषणविशेष्यात्मस्वभावान्नियमो यदि ।अजागलस्तनसमस्समवायः प्रकल्पितः ॥
मूलम्
प्राभाकराः पुनस्तत्र काश्यपं मतमास्थिताः ।तयोरेकत्वनित्यत्वविवादोऽस्ति विशेषतः ॥
मूलम्
समवायाख्यसंबन्धानेकानित्यत्वहेतुतः । व्यक्तैक्यं सितनीलादेः विभुत्वं चोपपाद्यते ॥
मूलम्
नीलोनष्टस्सितो जातः इत्याद्या अपि बुद्धयः ।संबन्धमूलास्सिद्ध्यन्ति लाघवं च महत्ततः ॥
मूलम्
इदं सर्वाद्वैतवादप्राग्रूपमिति केचन ।समवायैक्यपक्षेऽपि तथैवेत्यपरे विदुः ॥