मूलम्
एवमादीन् विवादांश्च समादधति केचन ।तान् शून्याद्वैतसिद्धान्तशुद्धान्तस्तम्भलक्षणान् ॥
मूलम्
अनवस्था द्विधा त्वाद्या सिद्धा स्यात्कारणाश्रया ।प्रमाणसिद्धा धारेयं न प्रसङ्गमिहार्हति ॥
मूलम्
कल्प्या द्वितीया सैवात्र संसर्गादौ प्रसञ्जिता ।तत्र स्वपरनिर्वाहः नैरपेक्ष्यमिति द्वयी ॥
मूलम्
गतिरस्ति प्राथमिक्या निर्वाहः प्रकृते भवेत् ।ज्ञातेन ज्ञानजनने नैरपेक्ष्यात्मिका गतिः ॥
मूलम्
इन्द्रियाण्यथ संस्कारः कारणं हि स्वरूपसत् ।क्वचित्स्वपरनिर्वाहः स्वस्वभावनिबन्धनः ॥
मूलम्
परश्शतपरीक्षोदात्परस्तादपि वादिभिः । उपलंभबले स्थेयं तदादादेव गृह्यताम् ॥
मूलम्
अतः कृत्स्नैकदेशादिविकल्पानुपपत्तिः ।संबन्धत्त्वापलापः शून्यवादस्य चाङ्कुरः ॥
मूलम्
निरंशत्वादथैकत्वात् न विकल्पोऽत्र तादृशः ।स च सावयवानेकपदार्थविषयो मतः ॥
मूलम्
समाप्यवृत्तिः व्यासज्यवृत्तिश्चेति द्विधा स्थितिः ।केवलैकत्र वृत्तिर्या सा समाप्येति कीर्त्यते ॥
टीका
न्या. र.[819]
मूलम्
सापेक्षेषु त्वनेकेषु वृत्तिर्व्यासज्यपूर्विका । प्रथमा जातिरूपादेस्संयोगादेरनन्तरा ॥
टीका
न्या. म.[312]