376 संयोगादिनिषेधः

मूलम्

संयोगिसमवाय्यादि सर्वमेतेन चिन्तितम् ।अन्योन्यानिपकाराच्च न संबन्धी च तादृशः ॥

मूलम्

जनने चापि कार्यस्य केनचित्समवायिना ।समवायि तदा नासौ न ततोऽतिप्रसङ्गतः ॥

मूलम्

तयोरनुपकारेऽपि समवाये परत्र वा ।संबन्धो यदि विश्वं स्यात्समवायि परस्परम् ॥

मूलम्

संयोगजननेऽयेतौ नहि संयोगिनौ मतौ । कर्मादेर्योगितापत्तौ स्थितिश्च प्रतिवर्णिता ॥

मूलम्

इत्यादिको विस्तरोऽसौ सर्वशून्यत्ववादिनाम् ।ग्रन्थेषु तूपलभ्येत प्रायस्ते शिथिला इह ॥