375 कार्यकारणभावनिषेधः

मूलम्

कार्यकारणभावाख्यः संबन्धो न भविष्यति ।तयोरसहभावेन द्विष्ठस्यास्याप्यसंभवात् ॥

मूलम्

क्रमेण भाव एकत्र वर्तमानोऽन्यनिस्स्पृहः ।तदभावेऽपि तद्भावात् संबन्धो नैकवत्तिमान् ॥

मूलम्

यद्यपेक्ष्य तयोरेकमन्यत्रासौ प्रवर्तते ।उपकारी ह्यपेक्ष्यः स्यात् कथं चोपकरोत्यसन् ॥

मूलम्

यद्येकार्थाभिसंबन्धात्कार्यकारणता तयोः ।प्राप्ता द्वित्वाभिसंबन्धात्सव्येतरविषाणयोः ॥

मूलम्

द्विष्टो हि कश्चित्संबन्धो नातोऽन्यत्तस्य लक्षणम् ।येन चैतस्य संख्यादेः व्यवस्थाप्येत भिन्नता ॥

मूलम्

भावाभावोपधिर्योगः कार्यकारणता यदि ।योगोपोधी न तावेव कार्यकारणतात्र किम् ॥

मूलम्

पश्यन्नेकमदृष्टस्य दर्शने तददर्शने ।अपश्यन् कार्यमन्वेति विनाऽप्याख्यातृभिर्जनैः ॥

मूलम्

दर्शनादर्शने मुक्त्वा कार्यबुद्धेरसंभवात् । कार्यादिश्रुतिरप्यत्र लाघवार्थं निवेशिता ॥

मूलम्

तद्भावाभावतः कार्यगतिर्याऽप्यनुवर्ण्यते । संकेतविषयाख्या सा साम्नादेर्गोगतिर्यथा ॥

मूलम्

भावे भाविनि तद्भावः भाव एव च भाविता ।प्रसिद्धे हेतुफलते प्रत्यक्षानुपलम्भतः ॥

मूलम्

एतावन्मात्रतत्त्वार्थाः कार्यकारणगोचराः ।विकलपा दर्शयन्त्यर्थान्मित्यार्थाः घटितानिव ॥

मूलम्

भिन्ने का घटनाऽभिन्ने कार्यकारणताऽपि का ।भावे ह्यन्यस्य विश्लिष्टौ श्लिष्टौ स्यातां कथं च तौ ॥