374 उदाहृतकारिका

मूलम्

अथ संबन्धतत्त्वापलापिनामिह कारिका ।प्रमेयाम्बुजमार्ताण्डोदाहृतैषाऽवधार्यताम् ॥

मूलम्

पारतन्त्र्यं हि संबन्धः सिद्धे का परतन्त्रता ।तस्मात् सर्वस्य भावस्य संबन्धो नास्ति तत्त्वतः ॥

मूलम्

द्वयोरेकाभिसंबन्धात्संबन्धो यदि तद्द्वयोः ।कस्संबन्धोऽनवस्था च न संबन्धमतिस्ततः ॥

मूलम्

तौ च भावौ तदन्यश्च सर्वे ते स्वात्मनि स्थिताः ।इत्यमिश्राः स्वयं भावाः तान्निश्रयति कल्पना ॥

मूलम्

तामेवचानुरुन्धानैः क्रियाकारकवाचिनः ।भावभेदप्रतीत्यर्थं संयोज्यन्तेऽभिधायकाः ॥