मूलम्
संबन्धस्य च संबन्धे तस्यापीत्यनवस्थितिः ।ततस्तस्य परित्यागे स्वरूपे पर्यवस्यति ॥
मूलम्
एवं विशेषे सामान्ये कारणे धर्मधर्मिणोः ।आधारोऽवयवे शक्तौ शेषिण्यङ्गे च संविदि ॥
मूलम्
अनवस्थाप्रसङ्गेन व्यवहारः स्वरूपतः । वरमित्याहुरपरे संबन्धोऽत्र कुतः कयोः ॥