372 तद्विभागः

मूलम्

तद्ब्राह्मण्यं द्विधा प्रोक्तं शारीरं मानसं त्विति ।सत्त्वादिरूपं शारीरं मानसं तु शमादिकम् ॥

टीका

रहस्यत्रय - प्रभावव्यवस्था.[ ]

मूलम्

शरीरसत्तापर्यन्तं शारीरनियमस्थितः ।मानसं सर्वपूज्यं स्यात् मनोवृत्तिनिबन्धनम् ॥

मूलम्

ब्राह्मण्यमासीत्प्रथमं ततः क्षत्रादि वैभवम् ।इति च ब्रह्म वेत्यादि बृहदारण्यके श्रुतम् ॥

मूलम्

आदौ कृतयुगे शूद्राद्यभावो भारतादिषु । प्रपञ्चितसच्चरित्ररक्षायामप्यनूदितः ॥

टीका

सच्चरित्ररक्षा.[31]

मूलम्

बीजप्राधान्यतो जातिव्यवस्थाऽऽदावभूत्ततः ।क्षेत्रप्राधान्यत इति चाधुना ज्ञायते गतिः ॥

टीका

मनु.[10-5]

मूलम्

ब्राह्मणानां पुनर्बीजं क्षत्राणां क्षेत्रमित्यपि ।मेधातितेरभिप्रायः ज्ञायते द्शमे मनोः ॥

मूलम्

पुराणादिषु चान्येषु विविधा ज्ञायते गतिः ।सर्वे सर्वानुग्रहाय मुखभेदा इति स्थितिः ॥