371 तदुपदेशवादः

मूलम्

नाध्यक्षगम्या जातिस्सा किन्तु स्मरणलक्षणा ।इति मेधातिथेः विज्ञानेश्वरस्य च निर्णयः ॥

मूलम्

तथा सेश्वरमीमांसातत्त्वटीकादिकारिणः ।औपदेशिकसिद्धान्तं स्थापयामासुसूर्जितम् ॥

टीका

सेश्वर.[1-2-2]

मूलम्

तदन्वयविशेषेषु संभवो विप्रतादिकम् ।अन्वयव्यतिरेकाभ्यां यथालोकं प्रतीयते ॥

मूलम्

संभवोऽपि च साध्व्याः स्यान्मातुरेवानुभाविकः ।द्रव्यादीनां धर्मतावदन्येषां त्वौपदेषिकम् ॥

मूलम्

ते सन्ततिविशेषास्स्युः वृद्धा येषु प्रयुञ्जते ।विप्रादिशब्दं योषां तु गोत्रार्षेयाद्यविस्मृतिः ॥

मूलम्

पक्षे त्वस्मिन् विप्रताद्यं व्यवहारनिबन्धनम् ।अनादिर्व्यवहारोऽयं वारदिव्यवहारवत् ॥

टीका

प. म.[6 भ.]

मूलम्

या चोत्कर्षापकर्षाभ्यां सप्तमे पञ्चमेऽपि वा ।वर्णान्तरापत्तिरुक्ता पर्यायाच्छुद्धिरेव सा ॥

टीका

याज्ञ.[1-96]

मूलम्

संभवः तदभिव्यङ्ग्या जातिर्वा विप्रता यदि ।मुखबाहूरुजातानां मानसानां कथं नु सा ॥

मूलम्

द्रौपद्यगस्त्यवाल्मीकिदृष्टद्रुम्नादिधीमताम् ।पौराणिकानामन्येषां कथ् सा व्यवतिष्ठते ॥

मूलम्

तद्योनिजायोनिजादिक्रोडीकरणनिर्मलम् ।ब्राह्मण्यमभिनिर्वाच्यं तद्धि सत्त्वादिलक्षणम् ॥

मूलम्

सत्त्वादयो गुणा एव स्वभावप्रभवा गुणाः ।तद्धेतुभूतं प्राचीनं कर्म स्वो भाव उच्यते ॥

टीका

भ. गी.[18-42]

मूलम्

प्रजापतेः ऋषीणां च प्रत्यक्षं तत्तु मादृशाम् ।गोत्रप्रवरसंबन्धपारंपर्यौपदेशिकम् ॥

मूलम्

सवर्णान्येन संयोगे सांकर्यं नैव संभवि । महर्षिषु प्रमादोऽपि तपोभिरनुपप्लुतः ॥