मूलम्
प्रत्यक्षं ब्राह्मणत्वादि सहकारिव्यपेक्षया । घृतत्वादिवदित्युक्तं मीमांसातन्त्रवार्तिके ॥
टीका
तन्त्र.[1-2-3]
मूलम्
सहकार्यत्रोपदेशः स पारम्परिको मतः । समूहलेख्यानि परम्पराऽविस्मृतिकारणम् ॥
मूलम्
नहि तत्करणं लोके वेदे वा किञ्चिदीदृशम् । इति कर्तव्यतासाध्ये यस्य नानुग्रहेऽर्थिता ॥
मूलम्
तथा च सन्ततिस्मृत्याऽनुगृहीतेन चक्षुषा ।विज्ञायमानं ब्राह्मण्यं प्रत्यक्षत्वं न मुञ्चति ॥
मूलम्
तथा च दृश्यते नानासहकारिव्यपेक्षया । चक्षुषो जातिविज्ञानजनकत्वं यथोदितम् ॥
मूलम्
सुवर्णं व्यज्यते रूपात् ताम्रत्वादेरसंशयम् ।तैलाद्घृतं विलीनं च गन्धेन तु रसेन वा ॥
टीका
श्लोक.[620]
मूलम्
भस्मपर्च्छादितो वह्निः स्पर्शनेनोपलभ्यते ।अश्वत्वादौ च दूरस्थे निश्चयो जायते ध्वनेः ॥
मूलम्
संस्थानेन घटत्वादि ब्राह्मणत्वादि योनितः ।क्वचिदाचारतश्चापि सम्यग्राज्ञाऽनुपालितात् ॥
मूलम्
यत्समानवयोवेषपिण्डद्वयविलोकने ।तत्क्षणादक्षतो भेदो नावभातीति भाषितम् ॥
मूलम्
नैतावता विभागस्य प्रत्यक्षत्वं निवर्तते । सादृश्यदोषात्तत्र स्याद्विभागस्यानवग्रहः ॥
मूलम्
समानरूपसंस्थानशुक्तिकाकलघौतयोः । विवेकस्सहसा नाभादिति कालान्तरेऽपि किम्॥
मूलम्
विश्वामित्रे च कर्माधिकारमात्रस्य संभवः ।न विप्रतादेः सांकर्यादिति कौस्तुभकृन्मतम् ॥
टीका
मी. कौस्तुभः[1-2-2]
मूलम्
यामुनाचार्यहेमाद्रिमाधवप्रमुखा बुधाः ।पन्थानमनुरुन्धाना अमुमेवेति निर्णयः ॥