मूलम्
श्रुतिस्मृतिनिबन्धेषु तद्व्याख्यानेषु च यच्छ्रुतम् ।भाष्यादिषु च यच्चोक्तं तत्सारांशोऽयमुच्यते ॥
मूलम्
जातिनाम्नोऽतिरिक्तस्य स्वीकर्तारस्तु वस्तुनः ।ब्राह्मणत्वादिकां जातिं नरत्वावान्तरं विदुः ॥
मूलम्
तत्र क्वचिद्ब्राह्मणादिशब्दानां गुणवाचिताम् ।वृत्तादिवाचितां चापि मन्वते तत्त्वदर्शिनः ॥
मूलम्
नञ्सूत्रेऽतो महाभाष्ये गुणसन्दोहवर्तिनः ।ब्राह्मणाद्या अमी शब्दाः क्वचिदंशेष्वितीरितम् ॥
टीका
पाणिनि.[2-2-6]
मूलम्
जात्यनभ्युपगन्तारः व्यवहारस्य गोचरम् ।विदुश्शुद्धकुलोत्पत्तिं जातिजन्मादिशब्दिताम् ॥
मूलम्
सैव संततिसन्तानकुलशब्दादिशब्दिता । सर्ववर्णेषु तुल्यास्वित्यादिस्मृतिवचोवलात् ॥
टीका
मनु.[10-5]
मूलम्
तमश्शूद्रे रजः क्षत्रे ब्राह्मणे सत्त्वमुत्कटम् ।इत्याश्वमेधिकस्मृत्या सत्त्वाद्यं केचिदभ्यधुः ॥
टीका
भारत.[14-39]
मूलम्
सन्निवेशसमानत्वेऽप्यारणेयादिवह्निषु । क्षीरभेदादिकेऽप्यस्ति शक्तिभेदास्तथाऽत्र हि ॥
टीका
श्रुत.[1-3-7]
मूलम्
परेऽदृष्टविशेषं तमात्मस्थमनुजानते ।तदभिव्यञ्जिकां शुद्धकुलोत्पत्तिं प्रचक्षते ॥
मूलम्
ब्राह्मणो जायते ह्येष यो यज्ञाज्जायते त्विति ।ब्राह्मणत्वं कर्मरूपमित् शातपथी श्रुतिः ॥
टीका
शतपथ.[3-1-1-40]
मूलम्
यथैव दीक्षणीयेष्ट्या जायन्ते ब्राह्मणादयः ।इति पाद्मे पाञ्चरात्रे तन्निमित्तमनूदितम् ॥
टीका
पाद्म-चर्या.[1-8]
मूलम्
मुखबाहूरुपज्जत्वं पुंसूक्तोक्तं विदुः परे ।तत्र प्रश्नानुरोधेन तद्रूपणमितीतरे ॥
मूलम्
मनूनां सर्गमकरोन्मुखबाहूरुपादतः ।एते सावर्ण्यनामानः विष्वक्सेनागमोदिताः ॥
टीका
तत्त्वत्रयव्या.[173]
मूलम्
महर्षयस्सप्त पूर्वे चत्वारो मनवस्तथा । इत्यत्र मनवस्तादृक्सावर्ण्या इति भाषितम् ॥