368 ब्राह्मणत्वादिजातिविप्लवः

मूलम्

अथच ब्राह्मणत्वादिजातिव्यवहृतौ मताः ।प्राचां ग्रन्थकृतां मार्गाः निशम्यन्तां समाहृताः ॥

मूलम्

अनादाविह संसारे दुर्वारे मकरध्वजे ।कुले च कामिनीमूले का जातिपरिकल्पना ॥

टीका

सेश्वर.[1-2-2]

मूलम्

यन्मे माता प्रलुलुभे विचरन्त्यपतिव्रता । तन्मे रेतः पिता वृङ्क्तामित्यप्यस्य निदर्शनम् ॥

टीका

मनु.[9-20]

मूलम्

अब्राह्मणो ब्राह्मणस्स्यात्प्रवरस्यानुमन्त्रणस्यात् ।इति श्रुत्यर्थजिज्ञासा शाबरादिषु विस्तृता ॥

टीका

जै. सू.[1-2-2]

मूलम्

न संस्थानं नापि धातुः न भयाद्यं न चौषधम् ।न वृत्तिः चापि चाचारः किन्तु सङ्केत एव सः ॥

मूलम्

इत्यादीनि च वाक्यानि जातिविप्लववादिनाम् ।विश्रुतान्येव सर्वत्र विज्ञेयौऽन्यत्र विस्तरः ॥