मूलम्
तिर्यगूर्धत्वभेदेन द्विविधं त्वार्हता विदुः । तुल्या परिणतिर्यत्र प्रतिव्यक्ति प्रदृश्यते ॥
मूलम्
तत्तिर्यग्यद्धि शबलाशाबलेयादिवस्तुषु । गोत्वादिकं तथाऽश्वत्वनरत्वामरतादिकम् ॥
मूलम्
पूर्वापरपरीणामसाधारणमवस्थितम् । द्रव्यं तदूर्ध्वताख्यं स्यात् कटकादिषु काञ्चनम् ॥
मूलम्
तथौपनिषदाः प्रायः तार्किकं वाऽथ वैदिकम् । पन्थानमाश्रिताः किञ्चित्किञ्चिद्भेदं समाश्रिताः ॥