मूलम्
अभाषत च संस्थानजातिपक्षं पतञ्जलिः । जातिनित्यत्वपक्षोक्तिरन्वारुह्येति नीयताम् ॥
टीका
त. टी.[75]
मूलम्
संस्थानजातिसिद्धान्तसारांशोऽत्रावगम्यताम् ।संस्थानं चाप्यवयवव्यूहस्सास्नादिलक्षणः॥
मूलम्
जातेस्तुव्यञ्जकं यत्स्यात् जातितस्तस्य सङ्ग्रहे ।जातिमालाऽनवस्थाऽतः संस्थानं जातिरिष्यते ॥
मूलम्
यद्यप्येकैकसंस्थं तत्संस्थानं गळकंबळम् । स्वभावतः तथाऽप्येतत्सप्रतिद्वन्द्विकं मिथः ॥
मूलम्
प्रमाणिकं स्वरूपं यत् स स्वभाव इतीर्यते ।तत्तथैव स्वीक्रियते यद्यथैव प्रतीयते ॥
मूलम्
सन्निवेशाः स्वभावेन नियतप्रतियोगिकाः ।अन्योन्यसादृश्यरूपाः मिथः स्मारकतावशात् ॥
मूलम्
एकस्मृतिसमारूढाः एकबुद्धिनियामकाः ।सादृश्यसामान्यशब्दावेकार्थाविति निर्णयः ॥
मूलम्
उपाधिसंकरन्यायादवस्थासंकरो मतः । भ्रमणस्यन्दनत्वाद्यमेकस्मिन् गमने मतम् ॥
मूलम्
अन्योन्यसप्रतिद्वन्द्वि रूपं सादृश्यमुच्यते । तदेवानुगतज्ञप्तिहेतुः जातिर्न चाधिका ॥
मूलम्
कथ्यते यैस्तु सादृश्यं संस्थानादिविलक्षणम् ।गुरुत्वं जातिगुप्तौ च धृतं तैर्जातिगुप्तिवत् ॥
टीका
त. टी.[78]
मूलम्
जातिखण्डनयुक्तीनां नावकाशोऽत्र लभ्यते ।प्रायः पतीक्शकाणामप्येतदेव मनोरमम् ॥
टीका
प्र. त.[74]