मूलम्
शाब्दिकास्तां विदुस्सत्तां तदुक्तिरवधार्यताम् ।सम्बन्धिभेदात्सत्तैव भिद्यमाना गवादिषु ॥
टीका
वैया. भूषणं[ ]
मूलम्
जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः ।तां प्रातिपदिकार्थँ च धात्वर्थं च प्रचक्षते ॥
मूलम्
सा नित्या सा महानात्मा तामाहुस्त्वतलादयः ।अऩेकव्यक्त्यभिव्यङ्ग्या जातिः स्फोट इति स्मृता ॥
मूलम्
कैश्चिद्व्यक्तय एवास्याः ध्वनित्वेन प्रकल्पिताः ।सत्यासत्यौ तु यौ भावौ प्रतिभावं व्यवस्थितौ ॥
मूलम्
सत्यं यत्तत्र सा जातिः असत्या व्यक्तयो मताः ।तद्ब्रह्म स च शब्दः स्यात् सकलं तदधिष्ठितम् ॥
मूलम्
आकृतिग्रहणा जातिः लिङ्गानां च न सर्वभाक् ।सकृदाख्याननिर्ग्राह्या गोत्रं च चरणैस्सह ॥
टीका
सिद्धान्तकौ. स्त्री.[ ]
मूलम्
प्रादुर्भावविनाशाभ्यां सत्त्वस्य युगपद्गुणैः ।असर्वलिङ्गां बह्वर्थां तां जातिं कवयो विदुः ॥