मूलम्
जातिं व्यक्तिगतां नित्यां व्यक्तितादात्म्यशालिनीम्। प्रत्यक्षगम्यां सर्वां तामाहुः कौमारिलाः पुनः॥
टीका
श्लोक.[557]
मूलम्
सत्ता पदार्थमात्रे स्यान्महासामान्ययमुच्यते। द्रव्यत्वब्रह्मणत्वादि सामान्यं स्यादवान्तरम्॥
मूलम्
महासामान्यमपरे नैवेच्छन्त्यनवस्थितेः। पुनस्तेन सहान्येषु सामान्यमतिरस्ति हि॥
मूलम्
जातिमेवाकृतिं प्राहुः व्यक्तिराक्रियते यया। सामान्यं तच्च पिण्डानामेकबुद्धिनिबन्धनम्॥
मूलम्
सर्ववस्तुषु बुद्धिश्च व्यावृत्त्यनुगमात्मिका। जायते द्वयात्मकत्वेन विना सा च न सिद्ध्यति॥
मूलम्
नचाप्यन्यतरा भ्रान्तिरुपचारेण गम्यते। दृढत्वात्सर्वथा बुद्धेः भ्रान्तिस्तद्भ्रान्तिवादिनाम्॥
मूलम्
निर्विशेषं न सामान्यं भवेच्छशविषाणवत्। सामान्यरहितत्वाच्च विशेषास्तद्वदेवहि॥
मूलम्
विषेषतो हि जिज्ञासा ज्ञाते सामान्यतो मता। सामान्यस्यानुपगमे प्रश्नोत्तरपराहतिः॥
मूलम्
स्वाभाविकश्च संबन्धो जातिव्यक्त्योर्न हेतुमान्। तेनैतस्य प्रसिद्ध्यर्थं नान्यसामान्यमिष्यते॥
मूलम्
विषयेण हि बुद्धीनां विना नोत्पत्तिरिष्यते। विशेषादन्यदिच्छन्ति सामान्यं तेन तद्ध्रुवम्॥
मूलम्
तस्मात्सास्त्रादिमत्स्वेव गोत्वं यस्मात्तदात्मकम्। तादात्म्यमस्य कस्माच्चेत्स्वभावादिति गम्यताम्॥
मूलम्
एकानेकत्वमेकस्य तथाऽन्यानन्यता कथम्। तत्सामान्यं विशेषश्चेत्येवमादि च दुष्करम्॥
मूलम्
विरोधस्तावदेकान्काद्वक्तुमात्र न युज्यते। सामान्यानन्यविज्ञाते विशेषे नैकवृत्तिता॥
मूलम्
सामान्यनन्यवृत्तित्वं विशेषात्मैकभावतः। तेन नात्यन्ततो भेदस्स्यात्सामान्यविशेषयोः॥
मूलम्
या चावयशो वृत्तिः स्त्रक्सू्त्रादिषु दृश्यते। भूतकण्ठगुणोदश्च प्रतिपिण्डं समाप्तिः॥
टीका
श्लोक.[622]
मूलम्
तत्रावयवयोगित्वमविभुत्वं च कारणम्। आकृतेस्तदभावेन न प्रसक्तमदोद्वयम्॥
मूलम्
नच द्वैविध्यमेवेति वृत्तेरस्ति नियामकम्। त्रैविध्यमपि दृष्टत्वात्संभवेत् द्वे विधे यथा॥
मूलम्
दीर्घह्रस्वत्ववच्चात्र व्यपेक्षाभेदतो भवेत् । अविरोध इति ज्ञात्वा प्रतिपत्तिर्निरूप्यताम् ॥