मूलम्
अथ प्राभाकरगुरोस्सिद्धान्तोऽत्र प्रकाश्यते। जातिराश्रयतो भिन्ना प्रत्यक्षज्ञानगोचरा॥
टीका
प्रक.[3 प्र.]
मूलम्
पूर्वाकारावनर्शेन ह्यनुवृत्तिमती तु सा। यो नानाव्यक्तिसंबन्धः साऽनुवृत्तिरितीर्यते॥
मूलम्
तत्सामान्यं विशेषश्च बुद्ध्यपेक्षमिति स्मृतिः। इयान्विशेषश्शिष्टांशः वैशोषिकनये स्थितः॥