362 तार्किकमतम्

मूलम्

अत्र वैशेषिकादीनामभिप्रायोऽवगम्यताम्। प्रत्यक्षबलसिद्धस्य सामान्यस्य कुतर्कतः॥

मूलम्

न शक्यो निह्नवः कर्तुं प्रत्यक्षं जयि सर्वतः। नहिं दृष्टेऽनुपपन्नं नामेत्यपिच लोकवाक्॥

मूलम्

सर्वा सर्वगता जातिरिति तावदुपेयते। सर्वत्राग्रहणं तस्याः व्यञ्जकव्यक्त्यसन्निधेः॥

मूलम्

अभिव्यक्तिस्तु तत्काला यत्कालं व्यक्तिदर्शनम्। तस्मात्सकृदभिव्यक्ता नान्यदाऽपि प्रतीयते॥

मूलम्

व्यक्तिसर्वगतत्वेऽपि सयूथ्यैः कैश्चिदाश्रिते। भविष्यत्यद्यजातायां गवि गोधीस्तथा ग्रहात्॥

मूलम्

जायनानैव हि व्यक्तिः जायते प्रतियोगिनी। एक एव हि कालोऽस्याः जातेस्संबन्धजन्मनोः॥

मूलम्

नच जातेः पुराऽस्तित्वं नट संक्रान्तिरन्यतः। किंतु स्वहेतोस्सा व्यक्तिः तादृश्येवोपजायते॥

मूलम्

वृषः पिशङ्गो गौः कृष्णा सा च नीलतृणादिनी। ताभ्यामुत्पादितो वत्सः कथं भवति पाण्डरः॥

मूलम्

तस्माद्वस्तुस्वभावेऽस्य विदित्वाऽननुयोज्यताम्। चोद्यचुञ्चुत्वमुत्सृज्य प्रतिपत्तिर्निरूप्यताम्॥

मूलम्

केचिन्नैयायिकाः जातिं नेच्छनति गुणकर्मणोः। द्रव्यजात्यैव दि तयोः जातिव्यवहृतिं विदुः॥

मूलम्

त्रिषु सत्तां केचिदाहुः सैव नास्तीति केचन। मानयोगार्हता सा स्यात् भावत्वं वेति ते विदुः॥

मूलम्

अनुमानं तु सामान्यापेक्षं सामान्यनह्नवे। नालमित्यसमीक्ष्यैव वृथा कण्ठो विशोष्यते॥