मूलम्
विकल्पविभ्रमो जातिरिति केचित्प्रचक्षते। उपाधिभेदभिन्ना सा महासत्तेत् केचन॥
टीका
प्रक.[3 प्र.]
मूलम्
एके सतीमभिन्नां तामाश्रयेभ्यो विजानते। अभिन्नमपि तामेतामनुमेयां विदुः परे॥
मूलम्
अपोहलक्षणं केचित्केचित्सारूप्यलक्षणाम्। स्वासाधरणरूपां तामन्ये संस्थानलक्षणाम्॥
मूलम्
एकार्थकारितामेके विवादा बहवोऽत्र हि। संग्रहो वचसां तेषां पूर्वेषामवगम्यताम्॥
मूलम्
अर्थक्रियासु नित्यस्य ह्यसामर्थ्यं स्फुटं ततः। जनकत्वस्य चाभावाद्विषयत्वाद्यसंभवः॥
मूलम्
इति बुद्धिविरोधेन विकल्पो जातिरुच्यते। तथाऽवयविनोऽभावे निराधारा कथं न सा॥
मूलम्
अन्यत्र वर्तमानस्य ततोऽन्यस्थानजन्मनि। तस्मादचलतः स्थानात् वृत्तिरित्यतियुक्तिता॥
मूलम्
यत्रासौ वर्तते भावः तेन सम्बध्यते न तु। तद्देशिनां च व्याप्नोति किमप्येतन्महाद्भुतम्॥
मूलम्
नायाति नच तत्रासीदस्ति पश्चान्न चांशवत्। जहाति पुनराधारमहो व्यसनसंततिः॥
टीका
त. टी.[74]
मूलम्
परतन्त्रैव सर्वत्र स्वात्मानं लब्धमर्हति। अतो वृत्तिविरोधेन विकल्पो नैव संशयः॥
मूलम्
पिण्डे सामान्यमेकत्र यदि कार्त्स्न्येन वर्तते। तत्रैवास्य समाप्तत्वान्न स्यात्पिण्डान्तरे ग्रहः॥
टीका
न्या. म.[298]
मूलम्
एकदेशेन वृत्तौ तु गोत्वजातिर्न कुत्रचित्। समग्राऽस्तीति, गोबुद्धिः प्रतिपिण्डं कथं भवेत्॥
मूलम्
पृथक्त्वे व्यक्तितो जातेः दृश्येत पृथगेव सा। अभेदे व्यक्तिमात्रं स्यात् द्वेधा चेन्न विरोधतः॥
मूलम्
जात्याद्यर्थान्तरं यस्मादतद्रूपेऽपि वस्तूनि। भवत्यध्यस्य धीः तस्मान्मृगतृष्णादिभिस्समा॥
मूलम्
तस्माद्यतोयतोऽर्थानां व्यावृत्तिस्तन्निबन्धनाः। जातिभेदाः प्रकल्प्यन्ते तद्विशेषावगाहिनः॥
टीका
न्या. र.[578]