360 आत्मकर्म

मूलम्

अथ चात्रात्मसंबन्धिक्रियाचिन्ता निशम्यताम्॥

टीका

श्लोक.[689]

मूलम्

साक्षाद्यद्यपि संबन्धो नात्मनो यज्ञसाधनैः। तथाऽपि लक्षणावृत्त्या शरीरद्वारको भवेत्॥

मूलम्

प्रत्यक्षत्वं च देहस्थं भाक्तमात्मनि कल्पितम्। आत्मनः स्वर्गयानं वा शरीरस्योपचर्यते॥

मूलम्

जन्मान्तरेऽभ्युपेतेऽपि ज्ञानमात्रात्मवादिनाम्। ज्ञानानां क्षणिकत्वाद्धि कर्तृभोक्त्रन्यता भवेत्॥

मूलम्

निष्क्रियत्वाविभुत्वाभ्यां नच देहान्तराश्रितिः। ज्ञानशक्तिस्वभावोऽतो नित्यस्सर्वगतः पुमान्॥

मूलम्

यजमानत्वमप्यात्मा सक्रियत्वात्प्रपद्यते। न परिस्पन्द एवैकः क्रिया नः कणभोजिवत्॥

मूलम्

नच स्वसमवेतैव कर्तृभिः क्रियते क्रिया। क्रिया धात्वर्थमात्रं स्यात् अन्याधारेऽपि कर्तृता॥

मूलम्

सत्ताज्ञानादिरूपाणां कर्ता तावत्स्वयं पुमान्। योऽपि भूतपरिस्पन्दः तत्राधिष्ठानतो भवेत्॥

मूलम्

तदुद्देशप्रवृत्तेश्च याया देहेन्द्रियैः क्रिया। क्रियते पुरुषेणैव सासा सर्वा कृतोच्यते॥

मूलम्

नैव ह्येषां प्रवृत्तिस्स्यात्पुरुषेणापरिग्रहे। अस्वातन्त्र्यादतो नैषां परिस्पन्देऽपि कर्तृता॥

मूलम्

तत्कर्मोपार्जितैश्चैतैः क्रियामाणेषु कर्मसु। कर्तृता यजमानानामृत्विक्परशुकरमवत्॥

मूलम्

यथा परिक्रयाम्नानादृत्विग्द्वारा क्रियोच्यते। गमनादिविधेस्तद्वत् भूतद्वारत्वमाश्रितम्॥

मूलम्

नच सर्वत्र तुल्यत्वं स्यात्प्रयोजककर्मणाम्। चलनेन ह्यसिं योद्धा प्रयुङ्क्ते छेदनं प्रति॥

मूलम्

सेनापतिस्तु वाचैव भृत्यानां विनियोजकः। राजा सन्निधिमात्रेण विनियुङ्क्ते कदाचन॥

मूलम्

तस्मादचलतोऽपि स्यात् चलने कर्तृताऽऽत्मनः। यथैवाभिद्यमानस्य देवदत्तस्य भेत्तृता॥

मूलम्

तस्माद्यथाऽऽकृतौ शास्त्रं प्रवृत्तं व्यक्तिमाश्रयेत्। तथा पुंसि प्रवृत्तस्य भूतेन्द्रियसमाश्रयः॥

मूलम्

शक्तिः कार्यानुमेयत्वात् यद्गतैवोपयुज्यते। तत्रैव साऽभ्युपेतव्या स्वाश्रयाऽन्यथाश्रयाऽपिवा॥

मूलम्

आत्मैव चाश्रयस्तस्य क्रियाऽप्यत्रैव च स्थिता। आत्मवादे स्थितं ह्येतत् कर्तृत्वं सर्वकर्मसु॥

मूलम्

यदि स्वसमवेतैव शक्तिरिष्येत कर्मणाम्। तद्विनाशे ततो न स्यात्कर्तृस्था तु न नश्यति॥

मूलम्

प्रमाणवन्त्यदृष्टामि कल्प्यन्ते सुबहून्यपि। अदृष्टशतभागोऽपि न कल्प्यो ह्यप्रमाणकः॥

मूलम्

कर्मजन्यो हि संस्कारः पुंसो बुद्ध्यादिवद्गुणः। तस्य चाफलसंयोगादवस्थितिरुपेयते॥

टीका

न्या. म.[278]

मूलम्

स यागादानहोमादिजन्यो धर्मगिरोच्यते। ब्रह्महत्यादिजन्यस्तु सोऽधर्म इति कथ्यते॥

मूलम्

एवं कर्मविचारेण नास्तिक्यं परिहीयते। तस्मान्निश्श्रेयसावाप्तिः तत्त्वज्ञानाद्धि सूत्र्यते॥