मूलम्
अत्र वेदान्तिनः केचिन्न्यायतत्त्वानुसारिणः। नैयायिकाश्च कतिचिन्न्यायभूषणयायिनः॥
टीका
व्या. स.[5 परि.]
मूलम्
द्रव्ये गुणे वा विश्रान्तिं कर्मणो ये विजानते। तेषामाशयसारोऽयं संक्षेपादवधार्यताम्॥
मूलम्
प्रत्यक्षं कर्म येऽप्याहुः नूनं तैरपि कर्मजात्। संयोगाद्वा विभागाद्वा निपुणं नान्यदीक्ष्यते॥
मूलम्
चलतिप्रत्ययोऽपि स्यात्तावतैव मनीषिणाम्। चलत्यचलादित्याद्या धियोऽवस्थानिबन्धनाः॥
मूलम्
कर्मादीनां गुणैर्द्रव्यैर्वाऽन्यथासिद्धिसंभवात्। द्रव्यं चाद्रव्यमित्येव विभागो मेयसंग्रहः॥
मूलम्
एतावताऽपि भग्नास्ते भवन्ति क्षणभङ्गिनः। कर्मापह्नवसिद्धान्तो दुःस्थ एवेति च स्थितम्॥
मूलम्
कर्मैकं बुद्धिरप्येका जगत्येकस्सितो गुणः। वर्णोऽप्येको गकारादिरिति च श्लोकवार्तिके॥
टीका
न्या. म.[220]
मूलम्
न प्रत्यक्षे इति ह्युक्तिश्शाबरी बुद्धिकर्मणी। प्रत्यक्षत्वे तयोस्स्याद्धि नित्यतेत्यपि तन्मतम्॥
मूलम्
शब्दनित्यत्ववादे हि विस्तरेण निरूपितम्। उपालभन्ते चात्रेत्थमेतान् नैयायिकाः पुनः॥
मूलम्
किंनाम शब्दनित्यत्वसमर्थनतृषातृरः। जङ्गमं स्थावरं चैव सकलं पातुमिच्छसि॥
टीका
न्या. म.[225]
मूलम्
इत्येवं वादसंरम्भे विचित्रा धीमदुक्तयः।