मूलम्
अतएवहि काणादाः कर्मणः कर्मसाध्यताम्। स्वभाववादभङ्गाय धूत्वाऽऽहुर्गुणसाध्यताम्॥
टीका
वै. सू.[1-1-11]
मूलम्
आत्मजन्या भवेदिच्छा हीच्छाजन्या भवेत्कृतिः। कृतिजन्या भवेच्चेष्टा चेष्टाजन्या भवेत्क्रिया॥
टीका
वै. सू. व.[5-1-1]
मूलम्
अदृष्टाधीनां चाहुः ज्वलनोर्ध्वादिकर्मणाम्। एतेन चेतनायत्तं सर्वं कर्मेति साधितम्॥
मूलम्
कृतेराख्यातवाच्यत्वस्थापनैतन्निबन्धना । व्यापारमात्रवादस्तु सांख्यादिमतिमूलकः ॥
मूलम्
अदृष्टं दृष्टसामग्रीं पुरस्कृत्यैव कारकम्। इतीरयाद्भिरप्यग्नेरूर्ध्वज्वलनमिष्यते॥
मूलम्
कर्मणः कर्मसाध्यत्वं निषेधत्यपि जैमिनिः। अभिक्रामं जहोतीति वाक्यस्यार्थनिरूपणे॥
टीका
जै. सू.[3-1-10]
मूलम्
क्रियाकारकनिष्पाद्या कारकं मूर्तमिष्यते। कर्म चैतदमूर्तं स्यात् इति न्यायोऽत्र शाबरः॥
मूलम्
क्रियैव कारकमिति क्षणप्रध्वंसवादिनाम्। सिद्धान्तोऽनेन वाक्येन संक्षेपेण कटाक्षितः॥
मूलम्
कर्मणः कर्मसाध्यत्वं स्वीकृतं श्लोकवार्तिके। कर्मणः कर्मसाध्यत्वं नास्मात्पक्षे विरुध्यते॥
टीका
श्लोक.[927]
मूलम्
अनात्मसमवेतस्य निमित्तं कर्म हीष्यते। इति वाक्याधिकरणपद्यमत्र निशम्यताम्॥
मूलम्
निषिद्धं समवायित्वं स्वीकृता तु निमित्तता। इति रत्नाकरव्याख्या विरोधपरिहारिणी॥
मूलम्
यद्यपि क्षणवादोऽयमेतेन प्रतिहन्यते। स्वभाववदावसरो निमित्तत्त्वेऽपि दुस्तरः॥