मूलम्
क्षणिकास्सर्वसंस्कारा अस्थिराणां कुतः क्रियाः॥
टीका
पा. भा.[4-21]
मूलम्
भूतिर्येषां क्रिया सैव कारकं सैव चोच्यते। ततोऽविरलदेशादेरुत्पादः कर्मलक्षणः॥
मूलम्
संयोगादिस्स एवेति क्षणभङ्गोऽनुपद्रवः। इति युक्त्या सौगतास्तु कर्मैवापलपन्ति हि॥
मूलम्
क्षणवादस्स दूष्यो हि प्रत्यक्षेणैव कर्मणा। कर्म चेदनुमेयं स्यात् जिता एव हि सौगताः॥
मूलम्
संयोगेनान्यथासिद्धिः वक्तुं शक्येत कर्मणः। नित्यत्वे सर्वदा जन्म स्यात्संयोगविभागयोः॥
मूलम्
अनित्यत्वेऽस्य यो हेतुस्तेनैव स्यात्तयोर्जनिः। तद्धेतुरेव तद्धेतुरिति न्यायोऽहि लौकिकः॥