356 प्राभाकरसिद्धान्तः

मूलम्

प्राभाकारस्तु मन्यन्ते कर्म चैतदतीन्द्रियम्। सुसूक्ष्मो व्यापार एषः सर्वद्रव्यगतोऽपि च॥

मूलम्

अनुमेयं हि संयोगाद्विभागाद्वाऽऽर्ककर्मवत्। अन्वयव्यतिरेकानुविधानं चक्षुरादिभिः॥

मूलम्

लिङ्गस्य दर्शने क्षीणं,गमनं यच्च ताक्षुषम्। स च संयोग एव स्यात् संयोगस्सर्वसम्मतः॥

मूलम्

तत्र कौमारिलास्त्वित्थ माक्षेपं संप्रचक्षते। गुरुर्गृहीतविषयमनुमानं प्रजल्पति॥

टीका

न्या. र.[371]

मूलम्

अमुमानेन कर्मादिसिद्धिमप्यभिवाञ्छति।