355 भट्टसिद्धान्तः

मूलम्

कर्मत्वजातिमत्कर्म प्रत्यक्षं चलनात्मकम् । अविभुद्रव्यसंस्थं तत् हेतुर्योगवियोगयोः ॥

मूलम्

वेगस्यापीति सिद्धान्तमाहुर्भाट्टाश्च तार्किकाः। न संयोगादिविषयः चलतिप्रत्ययो यतः॥

टीका

स. सि.[5-107]

मूलम्

सर्वसंयोगधाराऽपि धरा न चलतीति धीः। नवा तरङ्गिणीतीरपाषाणश्चलतीति धीः॥

मूलम्

भूकम्पादौ महोत्पादे ह्यचला चलतीति धीः। संयोगो वा विभागो वा न कश्चित्तत्र दृश्यते॥