मूलम्
यत्त्वथज्ञानशक्त्यादौ करणे च कळेबरे। प्रदानं विषमं यच्चाकृत्यादावनिवारणम्॥
मूलम्
यदप्यनुमतेर्दानं प्रत्यवायस्य सर्जनम्। तदप्यनादिप्राक्कर्म वैषम्याद्विषमं मतम्॥
मूलम्
अकृत्यकारिणोऽपीशानुग्राह्यास्स्युर्यदीशितुः। शास्त्रमात्रज्ञात्मकं व्यर्थं सोऽपि स्यादव्यवस्थितः॥
मूलम्
अपुंस्त्वमावहेच्चारस्य दण्ड्यानामप्यदण्डने। न गुणायावकल्पेत लोके दुष्टस्य शिक्षणम्॥
मूलम्
यद्यप्यदृष्टवैषम्यात्प्रवृत्तिर्विषमा मता। तत्त्वदृष्टं शास्त्रपुरस्काराद्दृष्टादि साधयेत्॥
मूलम्
तदप्येवं तत्र विधिनिषेधावसरो यथा। यतः प्रवृत्तिः शास्त्रोत्थबुद्ध्यादिकमपेक्षते॥
मूलम्
यज्ञादिकारणं पूर्वमनेन सुकृतं कृतम्। इत्येतेनैव नेदानीं यज्ञनिष्पत्तिसंभवः॥
मूलम्
नापि पापं केवलं वा पापमारभतेऽपितु। स्वबुद्ध्यैव निषेधातिवृत्त्या पापस्य कारणम्॥
मूलम्
ननुचादृष्टमूलत्वे विध्यानर्थक्यमुच्यते। शास्त्रं च सार्थकं सर्वैः परैरभ्युपगम्यते॥
मूलम्
तस्माददृष्टमूलत्वं त्यक्तव्यमिति चोद्यते। तन्नैवं लौकिकविधिनिषेधोऽपि प्रसङ्गतः॥
मूलम्
लोके प्रवृत्तिवैचित्र्यं स्यात्सामग्रीविशेषतः। किंवा गामानयेत्यादिनियोगेनेति चिन्त्यताम्॥
मूलम्
नियोगस्सोऽथ सामग्रीमध्यान्तर्भावमर्हति । इतिचेत् वैदिकश्चापि नियोगस्तादृगिष्यताम् ॥
मूलम्
परित्यजाम इति चेत् नियोगमपि लौकिकम् । हन्त संव्यवहारस्यासिद्ध्या व्युत्पत्त्यसंभवः ॥
मूलम्
लौकायतेनापि लीनं जगदान्ध्यं प्रसज्यते । तस्माददृष्टं शास्त्रं च नान्योन्यप्रतिबाधकम् ॥
मूलम्
तस्मादिष्टाऽदृष्टमूलशास्त्रवश्यदशान्वयात् । पुनस्तथातथा दृष्टसंपत्तिरुपपद्यते ॥
मूलम्
पुमर्थसाधनत्वेन प्रतीते स्वेच्छया पुमान् । प्रवर्तेतेति तादर्थ्यात् सावकाशाऽत्र चोदना ॥
मूलम्
इत्येवं शास्त्रवैयर्थ्यचोदनाक्षेपदूषणम् । तात्पर्यचन्द्रिकाग्रन्थविस्तृतस्यात्र संग्रहः ॥
मूलम्
एवं शास्त्रं शास्त्रजन्यादृष्टं वा बुद्धिपूर्वकम् । प्रवर्तयेदतः शास्त्रवैयर्थ्यं न प्रसज्यते ॥
टीका
तात्पर्य.[18-14]
मूलम्
दैवाधीनं जगत्सर्वमिति तत्त्वविदां वचः । मयि सर्वाणि कर्माणीत्युक्तगीतार्थगोचरम् ॥
टीका
तात्पर्य.[3-30]