मूलम्
अपिचात्र पराधीनास्वपि सर्वप्रवृत्तिषु । कृतप्रयत्नापेक्षत्वं परस्य कथमुच्यते ॥
टीका
ब्र. सू.[2-3-41]
मूलम्
शास्त्रवैयर्थ्यचोद्यस्यावैयर्थ्यादिप्रसङ्गतः । परिहारे साध्यहेत्वोः अविशेषः प्रसज्यते ॥
मूलम्
अत्रेदमवधातव्यं यत्तावत्परमेशितुः । प्रवृत्तिशक्तकरणकळेबरसमर्पणम् ॥
मूलम्
यच्च सर्वाधारतयाऽवस्थानं भूतलादिवत् । स्वरूपाच्चापि संकल्पात् प्रवृत्त्याद्यानुगुण्यतः ॥
मूलम्
कळेबराद्यधिष्ठानशक्तिदानं च यत्पुनः । यच्चापि बाह्यविषयपुरस्करणमित्यपि ॥
मूलम्
तत्सर्वं जीवकर्तृत्वानुगुणं नात्र चोदना । प्रवृत्तौ च निवृत्तौ च साधारणमिदं यतः ॥
मूलम्
एतावतैव भगवानुदासीन इतीर्यते । प्रवृत्तिकाले भगवान् अनुमन्तेत्युपेयते ॥
मूलम्
सा चानुमन्तृता जीवकर्तृतां न निवारयेत् । किंतूत्तभ्नातीति नातः शास्त्रवैयर्थ्यचोदना ॥
मूलम्
नैवानियोज्यताहेतुः कर्त्रान्तकसहायता। संभूयकार्येऽप्येकस्य दृश्यते हि नियोज्यता॥
मूलम्
एवं प्रवृत्तिशक्तस्य चेच्छायामनिवार्यता। स्वतन्त्रताऽस्य सिद्धेति कर्तृत्वमपि सुस्थितम्॥