352 जीवस्वातन्त्र्यम्

मूलम्

ननु स्वतन्त्रः कर्तेति शिष्यते कर्तृलक्षणम् । स कारकप्रयोक्ता स्यात् न प्रयोज्यश्च कारकैः ॥

टीका

श्लोक.[865]

मूलम्

उच्यतेऽत्रोत्पन्नबुद्धिचिकीर्षाकृतिशालिनः। स्यात्कारकप्रयोक्तृत्वं ज्ञानाद्युत्पत्तिरेव तु॥

मूलम्

श्रुता परात्मायत्तेति तदायत्तैव कर्तृता। सिद्धं स्वातन्त्र्यमपिच सामर्थ्ये चानिवार्यता॥

टीका

ब्र. सू.[2-3-40]

मूलम्

अथेश्वरो यदि ज्योतिष्टोमादौ संप्रवर्तयेत्। तदा किंचिन्न जीवस्य विधेयं चोदनादिभिः॥

मूलम्

बलिना ह्रियमाणेन न गन्तुमिह शक्यते । निरुन्धे परमात्माऽथ न विधेयं प्रसज्यते ॥

मूलम्

प्रबलेन निरुद्धस्य गमनं न विधीयते । यदि प्रवर्तयेदीशः निषेधोऽत्र हि निष्फलः ॥

मूलम्

नासौ प्रवर्तयेद्यत्र निषेधो न ह्यपेक्ष्यते । चोद्यकाष्ठेयमखिलास्तिकैकान्तावलम्बिनी ॥

मूलम्

निग्रहानुग्रहाख्यानपूर्वादृष्टप्रचोदितः । निग्रहानुग्रहाद्यर्ह इतीदं घटते कथम् ॥