मूलम्
यच्चात्र शास्त्रवैयर्थ्यचोद्यं किंचित्समाहितम्। तस्य प्रपञ्चो ज्ञातव्यः गीताशास्त्रनिरूपितः॥
मूलम्
अधिष्ठानं तथा कर्ता करणं च पृथ्ग्विधम्। विविधा च पृथक्चेष्टा दैवं चैवात्र पञ्चमम्॥
टीका
भ. गी.[18-14]
मूलम्
शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः। न्यायं वा विपरीतं वा पञ्चैते तस्य हेतवः॥
मूलम्
इत्यस्यायमभिप्रायः देहोऽधिष्ठानमुच्यते। जीवः कर्ताऽथ करणमिन्द्रियं चक्षुरादिकम्॥
मूलम्
प्राणश्चेष्टा हि विविधा या क्रियाशक्तिरुच्यते। ईश्वरो दैवमुद्दिष्टं तत्र न्यायोऽवधार्यताम्॥
मूलम्
दैवं दिष्टं भागधेयं दैवं कर्म पुराकृतम्। सत्येवं व्यवहारेऽपि दैवमत्रेश्वरो मतः॥
मूलम्
नहि प्रागेव नष्टानां कर्मणामिह हेतुता। कर्मजन्यादृष्टरूपसंकल्पादप्यसौ वरम्॥
मूलम्
सत्यंसत्यं पुनस्सत्यमुद्धृत्य भुजमृच्यते। वेदशास्त्रात्परं नास्ति न दैवं केशवात्परम्॥
मूलम्
स्वाधीनं समतिक्रम्य मातरं पितरं गुरूम्। अस्वाधीनं कथं दैवं प्रकरैरभिराध्यते॥
मूलम्
इत्येवं भारते रामायणे चापि प्रयुच्यते। श्रूयतां परमं दैवं दुर्विज्ञेयं मयाऽपिच॥
मूलम्
नारायणस्तु पुरुषो विश्वरूपो महाद्युतिः। सभापर्ववचस्त्वेवं अथ योगविदां वचः॥
मूलम्
आर्षं छन्दश्च दैवं च मन्त्राणां ब्राह्मणं तथा। आत्मानं पूजयेन्नित्यं भूषणाच्छादनादिभिः॥
मूलम्
स्वदेह एव दैवं स्यात् अन्यद्दैवं न विद्यते । दैवाधीनं जगत्सर्वं मन्त्राधीनं तु दैवतम् ॥
मूलम्
तन्मन्त्रं ब्रह्मणाधीनं तस्माद्विप्रा हि दैवतम् । शास्त्रेऽप्यस्मिन् दैवशब्दः प्रयुक्तः पुरुषे यथा ॥
मूलम्
अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् । तस्माद्दैवमिह ब्रूमः परमात्मानमीश्वरम् ॥