मूलम्
यस्मादवश्यंवक्तव्या प्रयोजनवदर्थता। स्वाध्यायविध्यधीतानां सर्वोपनिषदां ततः॥
टीका
श्लोक.[655]
मूलम्
दैवप्रभावकथनार्थोऽयं सर्गादिरुच्यते। प्रधानं पौरुषं येषां तन्निरासकटाक्षतः॥
मूलम्
सृष्टिकाले दैववशेनैव सर्वा प्रवर्तते। सृष्टिस्समस्तपुरुषकाराभावेऽपि केवलम्॥
मूलम्
लयकाले तु पुरुषकारे सत्यपि सर्वशः। तद्वैवोपरमादेवोपरमेत्सकलं जगात्॥
मूलम्
धर्मानुष्ठान एवातः यतितव्यं कृतात्मभिः। इत्येतत्परमेष्टव्यं सृष्टिप्रलयकीर्तनम्॥
मूलम्
भारतादीतिहासानां धर्मादौ वृत्तिरिष्यते। व्यवहारानादिवादिमीमांसकमतं त्विदम्॥
टीका
तन्त्र.[81]
मूलम्
निर्विशेषविदां सृष्टिकथाफलमिदं मतम्। सर्वस्य ब्रह्मकार्यत्वे सर्वं ब्रह्माधितिष्ठति॥
टीका
वेदान्तपरिभाषा.[ ]
मूलम्
नेतिनेतिनिषेधेन निषिद्धमखिलं भवेत्। सृष्ट्याद्यकथायित्यैव निषेधे केवले कृते॥
मूलम्
ब्रह्मानध्यस्तवस्तूनां नित्यानां सत्त्वशङ्कया। सर्वं ब्रह्मातिरिक्तं न प्रतिषिद्धं भवेदिति॥
मूलम्
यच्चौपनिषदानां तु सविशेषविदां मतम्। निरूपितं प्रागित्थं तु दैवपौरुषनिर्णयः॥
मूलम्
दैवे पुरुषकारे च कर्मसिद्धर्व्यवस्थिता। पौरुषस्य त्वभावे हि दैवं नैव प्रसिद्ध्यति॥
टीका
याज्ञ.[1-384]
मूलम्
प्राग्दैहिकं पौरुषं हि दैवमित्युच्यते बुधैः। व्यज्यते तद्बहुफलोदयादप्यल्पयत्नतः॥
मूलम्
केचिद्दैवात्स्वभावाद्वा कालापुरुषकारतः। संयोगे केचिदिच्छन्ति फलं कुशलबुद्धयः॥
मूलम्
यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत्। एवं पुरुषकारेण विना दैवं न सिद्ध्यति॥