349 सृष्टिलयाद्यभावः

मूलम्

प्रळयेऽपि प्रमाणं तु सर्वोच्छेदात्मके नहि। स च युक्तो यथेदानीं भूतानां दृश्यते क्रमात्॥

टीका

श्लोक.[657]

मूलम्

तस्मादद्यवदेवात्र सर्गप्रळयकल्पना। समस्तक्षयजन्मभ्यां न सिद्ध्यत्यप्रमाणिका॥

मूलम्

कर्मान्तरनिरुद्धं हि फलं न स्यात्क्रियान्तरात्। सर्वेषां तु फलापेतं न स्थानमुपपद्यते॥

मूलम्

ईश्वरेच्छा यदीष्येत सैव स्याल्लोककारणम्। ईश्वरेच्छावशित्वे हि निष्फला कर्मकल्पना॥

मूलम्

न चानिमित्तया युक्तमुत्पत्तुं हीश्वरेच्छया। यत्तु तस्या निमित्तं स्यात्तद्भूतानां भविष्यति॥

मूलम्

सान्निवेशादिमतत्सर्वं बुद्धिमद्धेतु यद्यपि। प्रसिद्धेः,सन्निवेशादेरेककारणता कुतः॥

मूलम्

सर्गप्रळयविज्ञानं समस्तजगदाश्रयम्। स्वशरीरविदां पुंसां नाधिक्येनोपयुज्यते॥

मूलम्

देहानित्यत्वधीमात्रात् स्वर्गमोक्षार्थगोचरा। प्रवृत्तिस्सिद्ध्यति यतः व्यर्था सर्गादिधीस्ततः॥