मूलम्
अक्षपादीयसिद्धान्ते चित्राद्यमपि चैहिकम्। तत्कारिणां फलाभावे वैगुण्यादिति ते विदुः॥
टीका
न्या. सू.[2-1-57]
मूलम्
तेषामपि मते प्राग्वत् वेदानामप्रमाणता। फलं स्वाभाविकं यस्मात्स्यादिहाकृतकर्मणाम्॥
मूलम्
आमुष्मिकं तत्स्वर्गादि वृष्ट्याद्यैहिकमिष्यते। पश्वाद्यनियतं ग्राह्यमसति प्रतिबन्धके॥
मूलम्
अभुक्तेन विरोधे तु प्रबलेन च कर्मणा। सर्वं चानियतं ग्रह्यं देशकालाद्यपेक्षया॥
मूलम्
यच्चान्नादिफलं कर्म पूर्वजन्मन्यनुष्ठितम्। तत्तु स्वफलदानाय वृष्ट्याद्यपिच यच्छति॥
मूलम्
ततश्चाकृतकारीरीकर्मणामपि सिद्ध्यति। वृष्ट्याद्यन्नदिनिष्पत्तिरिति शास्त्रीयपद्धतिः॥
मूलम्
तस्माददृष्टाधीनत्वं सर्वेषां सुखदुःखयोः। नतु स्वाभाविकत्वं स्यादिति वैदिकदर्शनम्॥
मूलम्
यदा सर्वमदृष्टस्य वशं विहत एव सः। स्वभाववादः,भूतानां परिणामोऽपि तद्वशः॥
मूलम्
अग्निरुष्णो जलं शीतं समस्पर्शस्तथाऽनिलः। ऊर्ध्वाधस्तिर्यगित्येवंगतयोऽपिहि तद्वशाः॥