मूलम्
भर्तृमित्रादयस्त्वाहुश्चित्राद्यैहिकसाधनम्। क्वचित्फलादर्शनं तु प्रबलप्रतिरोधतः॥
टीका
श्लोक.[684]
मूलम्
प्रतिबन्धककर्मापि मतमैहिकसाधनम्। निर्निमित्तं फलं तेषां स्यादिहाकृतकर्मणाम्॥
मूलम्
चित्रादीनां फलं तावत् क्षीणं प्राक्तनजन्मनि। नच स्वर्गफलस्येह कश्चिदंशोऽनुवर्तते॥
मूलम्
नैव ह्यन्यफलं कर्म साधयेन्नः फलान्तरम्। गौतमीयेऽपि तच्छेषः चित्रादेश्शेष इष्यते॥
टीका
गौ. ध.[11.31]
मूलम्
स्वाभाविकत्वे सिद्धे च कर्मानन्तरभाव्यपि। फलं क्रियानिमित्तत्वं न कथंचित्प्रपद्यते॥
मूलम्
तत्र म्लेच्छादिवत्सर्वे कर्माकृत्वाऽपि वैदिकम्। फलं लभन्त इत्येवं नष्टा वेदप्रमाणता॥