मूलम्
ईश्वरेच्छाऽधिकारो वा वासना पुद्गलोऽपि वा। अदृष्टं वाऽपि दृष्टं वा न्यायस्त्वेकोऽवधार्यताम्॥
मूलम्
दृष्ठार्थस्यापि सेवादेरायातमपि सत्फलम्। उत्पद्यते चिरेणैव प्रतिबन्धेन केनचित्॥
मूलम्
स्वाभाविक्येव सर्वेषामुत्पत्तिरिति केचन। किमदृष्टेन दृष्टेन हेतुना वेति तन्मतम्॥
मूलम्
निर्निमित्ता नचोत्पत्तिः नच सर्वाप्रमाणता। बोधयन्ति प्रमाणानि सर्वाणि सनिमित्तताम्॥
मूलम्
ईश्वरोच्छाधिकारादौ शब्दलिङ्गादिवर्जनात्। व्यभिचाराच्च सेवादेः पश्वादेस्साधनान्तरम्॥
टीका
श्लोक.[683]
मूलम्
तच्च चित्रादिकमिति शब्देन त्ववगम्यते। तदपि स्यादनियतमिति कौमारिला विदुः॥
मूलम्
एतद्देहानुभाव्यं यत्तदौहिकफलं मतम्। देहान्तरानुभाव्यं तु विदुरामुष्मिकं बुधाः॥